|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.8. अध्यायः 008
Mahabharata - Bhishma Parva - Chapter Topics
मेरोरुत्तरभागस्थखण्डत्रयवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-8-0x(3971)(38910)
वर्षाणां चैव नामानि पर्वतानां च संजय।
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ॥ 6-8-1(38911)
संजय उवाच। 6-8-2x(3972)
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु।
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ 6-8-2(38912)
शुक्लाभिजनसंपन्नाः सर्वे सुप्रियदर्शनाः।
निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः ॥ 6-8-3(38913)
दशवर्षसहस्राणि शतानि दश पञ्च च।
जीवन्ति ते महाराज नित्यं मुदितमानसाः ॥ 6-8-4(38914)
दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण तु।
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ॥ 6-8-5(38915)
यत्र चायं महाराज पक्षिराट् पतगोत्तमः।
यक्षानुगा महाराज धनिनः प्रियदर्शनाः ॥ 6-8-6(38916)
महाबलास्तत्र जना राजन्मुदितमानसाः।
एकादशसहस्राणि वर्षाणां ते जनाधिप ॥ 6-8-7(38917)
आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च।
श्रृङ्गाणि वै श्रृङ्गवतस्त्रीण्येव मनुजाधिप ॥ 6-8-8(38918)

एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् ।
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ।
तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली ॥ 6-8-9(38919)
उत्तरेण तु श्रृङ्गस्य समुद्रान्ते जनाधिप ।
वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ॥ 6-8-10(38920)
न तत्र सूर्यस्तपति न जीर्यन्ते च मानवाः ।
चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ॥ 6-8-11(38921)
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ।
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥ 6-8-12(38922)
अनिष्पन्दा इष्टगन्धा निराहारा जितेन्द्रियाः ।
देवलोकच्युताः सर्वे तथा विरजसो नृप ॥ 6-8-13(38923)
त्रयोदशसहस्राणि वर्षाणां ते जनाधिप ।
आयुःप्रमाणं जीवन्ति नरा भरतसत्तम ॥ 6-8-14(38924)
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः ।
हरिर्वसति वैकुण्ठः शकटे कनकोञ्ज्वले ॥ 6-8-15(38925)
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् ।
अग्निवर्णं महातेजो जाम्बूनदविभूषितम् ॥ 6-8-16(38926)
स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ ।
संक्षेपो विस्तरश्चैव कर्ता कारयिता तथा ॥ 6-8-17(38927)
पृथिव्यापस्तथाऽऽकाशं वायुस्तेजश्च पार्थिव ।
स यज्ञः सर्वभूतनामास्यं तस्य हुताशनः ॥ 6-8-18(38928)
वैशम्पायन उवाच। 6-8-19x(3973)
एवमुक्तः संजयेन धृतराष्ट्रो महामनाः।
ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप ॥ 6-8-19(38929)
स विचिन्त्य महातेजाः पुनरेवाब्रवीद्वचः।
असंशयं सूतपुत्र कालः संक्षिपते जगत् ॥ 6-8-20(38930)
सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् ।
नरो नारायणश्चैव सर्वज्ञः सर्वभूतहृत् ॥ 6-8-21(38931)
देवा वैकुण्ठ इत्याद्दुर्वेदा विष्णुरिति प्रभुम् ॥ ॥ 6-8-22(38932)
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण़्डविनिर्माणपर्वणि अष्टमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-8-2 यत्पूर्वं श्वेतवर्षमित्युक्तं तस्यैव रमणकमिति संज्ञान्तरम् ॥ 6-8-8 शृङ्गवतः षष्ठस्य वर्षपर्वतस्य ॥ 6-8-10 शृङ्गस्य शृङ्गवतः ॥ 6-8-13 अनिष्पन्दा अश्वेदाः । देवतुल्या इत्यर्थः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|